|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.104. अध्यायः 104
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति गोभूविद्यादानप्रशंसनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम्।
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः॥ 13-104-1(85606)
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणायेष्टिकर्मिणे।
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति॥ 13-104-2(85607)
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः।
वेदे वा यत्समाख्यातं तन्मे व्याख्यातुमर्हसि॥ 13-104-3(85608)
भीष्म उवाच। 13-104-4x(7106)
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च।
सर्वकामफलानीह गावः पृथ्वी सरस्वती॥ 13-104-4(85609)
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम्।
पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्नुते॥ 13-104-5(85610)
तथैव गाः प्रशंसन्ति न तु देयं ततः परम्।
सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर॥ 13-104-6(85611)
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः।
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः 13-104-7(85612)
सन्ताड्या न तु पादेन गवां मध्ये न च व्रजेत्।
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव गाः॥ 13-104-8(85613)
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्।
पूर्वमेवाक्षरं चान्यदभिधेयं ततः परम्॥ 13-104-9(85614)
प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः।
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम्॥ 13-104-10(85615)
पितृसद्मानि सततं देवतायतनानि च।
पूयन्ते शकृता यासां पूतं किमधिकं ततः॥ 13-104-11(85616)
घासमुष्टिं परगवे दद्यात्संवत्सरं तु यः।
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम्॥ 13-104-12(85617)
स हि पुत्रान्यशोऽर्थं च श्रियं चाप्यधिगच्छति।
नाशयत्यशुभं चैव दुःस्वप्नं चाप्यपोहति॥ 13-104-13(85618)
युधिष्ठिर उवाच। 13-104-14x(7107)
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत्।
कीदृशाय प्रदातव्या न देयाः कीदृशाय च॥ 13-104-14(85619)
भीष्म उवाच। 13-104-15x(7108)
असद्वृत्ताय पापाय लुब्धायानृतवादिने।
हव्यकव्यव्यपेताय न देया गौः कथञ्चन॥ 13-104-15(85620)
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये।
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान्॥ 13-104-16(85621)
`जुहोति यद्भोजयति यद्ददाति गवां रसैः।
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवर्तितः॥' 13-104-17(85622)
यश्चैव धर्मं कुरुते तस्य धर्मफलं च यत्।
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः॥ 13-104-18(85623)
यश्चैनमुत्पादयते यश्चैनं त्रायते भयात्।
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः॥ 13-104-19(85624)
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः।
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः॥ 13-104-20(85625)
वेदान्तनिष्ठस्य बहुश्रुतस्य
प्रज्ञानतृप्तस्य जितेन्द्रियस्य।
शिष्टस्य दान्तस्य यतस्य चैव
भूतेषु नित्यं प्रियवादिनश्च॥ 13-104-21(85626)
यः क्षुद्भयाद्वै न विकर्म कुर्या-
न्मृदुश्च शान्तौ ह्यतिथिप्रियश्च।
शुभे पात्रे ये गुणा गोप्रदाने
तावान्दोषो ब्राह्मणस्वापहारे। 13-104-22(85627)
सर्वावस्थं ब्राह्मणस्वापहारे
दाराश्चैषां दूरतो वर्जनीयाः॥ 13-104-23(85628)
`विप्रदारे परिहृते तद्धनेऽपहृते च तु।
परित्रायन्ति शक्तास्तु नमस्तेभ्यो मृताश्च ये॥ 13-104-24(85629)
न पालयन्ति निहतान्ये तान्वैवस्वतो यमः।
दण्डयन्भर्सयन्नित्यं निरयेभ्यो न मुञ्चति॥ 13-104-25(85630)
तथा गवां परित्राणे पीडने च शुभाशुभम्।
विप्रगोषु विशेषेण रक्षितेषु गृहेषु वा॥' ॥ 13-104-26(85631)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरधिकशततमोऽध्यायः॥ 104 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-104-2 इष्टिकर्मिणे याज्ञिकाय॥ 7-104-4 तुल्यनामानि गोपदवाच्यानि॥ 7-104-6 देयं दानयोग्यम्। परं श्रेष्ठम्॥ 7-104-9 गवां बलीवर्दानां कर्मसु यज्ञाद्यर्थेषु कृष्याद्यर्थेषु कर्षणादिषु वर्ततां प्रचोदनं प्रतोदेन प्रेरणं देवैः कृतमिति न तत्र दोष इति भावः। तथापि पूर्वं यज्ञार्थमेव चोदनमक्षरं श्रेयस्करम्। अन्यत्कृष्याद्यर्थं तु ततः परं वैदिककर्षणमनुप्रवृत्तमभिधेयं वाच्यं निन्द्यमित्यर्थः॥ 7-104-10 निवाते कठिनोपवेशने। अभिवीक्षन्त्यो जलमलभमानाः॥ 7-104-12 आहारं तदीयतक्राद्याहरणमकृत्वा॥ 7-104-21 वेदान्तनिष्ठस्य वृत्तिं अतिसृजेतेत्युत्तरेणान्वयः। चतुर्ध्यर्थे षष्ठी॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|